लोमश उवाच । सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये । संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥
lomaśa uvāca । sā tu nāvyāśramaṁ cakre rājakāryārthasiddhaye । saṁdeśāc caiva nr̥pateḥ svabuddhyā caiva bhārata ॥
Who speaks here लोमश lomaśa · ऋश्यशृङ्ग ṛśyaśṛṅga
English for this adhyāya (section level, not verse by verse): Ganguli’s translation, approximately §110–112 Ganguli follows a different edition, so the match is approximate.
लोमश उवाच । सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये । संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥
lomaśa uvāca । sā tu nāvyāśramaṁ cakre rājakāryārthasiddhaye । saṁdeśāc caiva nr̥pateḥ svabuddhyā caiva bhārata ॥
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् । नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥
nānāpuṣpaphalair vr̥kṣaiḥ kr̥trimair upaśobhitam । nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ ॥
अतीव रमणीयं तदतीव च मनोहरम् । चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ॥
atīva ramaṇīyaṁ tad atīva ca manoharam । cakre nāvyāśramaṁ ramyam adbhutopamadarśanam ॥
ततो निबध्य तां नावमदूरे काश्यपाश्रमात् । चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥
tato nibadhya tāṁ nāvam adūre kāśyapāśramāt । cārayām āsa puruṣair vihāraṁ tasya vai muneḥ ॥
ततो दुहितरं वेश्या समाधायेतिकृत्यताम् । दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ॥
tato duhitaraṁ veśyā samādhāyetikr̥tyatām । dr̥ṣṭvāntaraṁ kāśyapasya prāhiṇod buddhisaṁmatām ॥
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ । आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥
sā tatra gatvā kuśalā taponityasya saṁnidhau । āśramaṁ taṁ samāsādya dadarśa tam r̥ṣeḥ sutam ॥
वेश्योवाच । कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् । कच्चिद्भवान्रमते चाश्रमेऽस्मिं;स्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि ॥
veśyovāca । kaccin mune kuśalaṁ tāpasānāṁ; kaccic ca vo mūlaphalaṁ prabhūtam । kaccid bhavān ramate cāśrame ’smiṁs; tvāṁ vai draṣṭuṁ sāṁpratam āgato ’smi ॥
कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः । कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ॥
kaccit tapo vardhate tāpasānāṁ; pitā ca te kaccid ahīnatejāḥ । kaccit tvayā prīyate caiva vipra; kaccit svādhyāyaḥ kriyate r̥śyaśr̥ṅga ॥
ऋश्यशृङ्ग उवाच । ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम् । पाद्यं वै ते संप्रदास्यामि कामा;द्यथाधर्मं फलमूलानि चैव ॥
r̥śyaśr̥ṅga uvāca । r̥ddho bhavāñ jyotir iva prakāśate; manye cāhaṁ tvām abhivādanīyam । pādyaṁ vai te saṁpradāsyāmi kāmād; yathādharmaṁ phalamūlāni caiva ॥
कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् । क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ॥
kauśyāṁ br̥syām āssva yathopajoṣaṁ; kr̥ṣṇājinenāvr̥tāyāṁ sukhāyām । kva cāśramas tava kiṁ nāma cedaṁ; vrataṁ brahmaṁś carasi hi devavat tvam ॥
वेश्योवाच । ममाश्रमः काश्यपपुत्र रम्य;स्त्रियोजनं शैलमिमं परेण । तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः ॥
veśyovāca । mamāśramaḥ kāśyapaputra ramyas; triyojanaṁ śailam imaṁ pareṇa । tatra svadharmo ’nabhivādanaṁ no; na codakaṁ pādyam upaspr̥śāmaḥ ॥
ऋश्यशृङ्ग उवाच । फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव । परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व ॥
r̥śyaśr̥ṅga uvāca । phalāni pakvāni dadāni te ’haṁ; bhallātakāny āmalakāni caiva । parūṣakānīṅgudadhanvanāni; priyālānāṁ kāmakāraṁ kuruṣva ॥
लोमश उवाच । सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै । तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि ॥
lomaśa uvāca । sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato ’smai । tāny r̥śyaśr̥ṅgasya mahārasāni; bhr̥śaṁ surūpāṇi ruciṁ dadur hi ॥
ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति । पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव ॥
dadau ca mālyāni sugandhavanti; citrāṇi vāsāṁsi ca bhānumanti । pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva ॥
सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव । गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् ॥
sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva । gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakr̥d r̥śyaśr̥ṅgam ॥
सर्जानशोकांस्तिलकांश्च वृक्षा;न्प्रपुष्पितानवनाम्यावभज्य । विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः ॥
sarjān aśokāṁs tilakāṁś ca vr̥kṣān; prapuṣpitān avanāmyāvabhajya । vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṁ maharṣeḥ ॥
अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य । अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् ॥
atharśyaśr̥ṅgaṁ vikr̥taṁ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya । avekṣamāṇā śanakair jagāma; kr̥tvāgnihotrasya tadāpadeśam ॥
तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः । तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव ॥
tasyāṁ gatāyāṁ madanena matto; vicetanaś cābhavad r̥śyaśr̥ṅgaḥ । tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva ॥
ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् । स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् ॥
tato muhūrtād dharipiṅgalākṣaḥ; praveṣṭito romabhir ā nakhāgrāt । svādhyāyavān vr̥ttasamādhiyukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt ॥
सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम् । विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् ॥
so ’paśyad āsīnam upetya putraṁ; dhyāyantam ekaṁ viparītacittam । viniḥśvasantaṁ muhur ūrdhvadr̥ṣṭiṁ; vibhāṇḍakaḥ putram uvāca dīnam ॥
न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य । सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य ॥
na kalpyante samidhaḥ kiṁ nu tāta; kaccid dhutaṁ cāgnihotraṁ tvayādya । sunirṇiktaṁ sruksruvaṁ homadhenuḥ; kaccit savatsā ca kr̥tā tvayādya ॥
न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च । दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥
na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vicetanaś ca । dīno ’timātraṁ tvam ihādya kiṁ nu; pr̥cchāmi tvāṁ ka ihādyāgato ’bhūt ॥