Vana Parva · Adhyaya 3.107

Adhyāya 107

अध्यायः 107

Who speaks here लोमश lomaśa

English for this adhyāya (section level, not verse by verse): Ganguli’s translation, approximately §108–110 Ganguli follows a different edition, so the match is approximate.

Text
In this chapterSanskrit allTransliteration allHindi unavailableEnglish unavailableUnavailable translations are marked, never invented.
107.1MBH-3-107-1

लोमश उवाच । स तु राजा महेष्वासश्चक्रवर्ती महारथः । बभूव सर्वलोकस्य मनोनयननन्दनः ॥

lomaśa uvāca । sa tu rājā maheṣvāsaś cakravartī mahārathaḥ । babhūva sarvalokasya manonayananandanaḥ ॥

107.2MBH-3-107-2

स शुश्राव महाबाहुः कपिलेन महात्मना । पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥

sa śuśrāva mahābāhuḥ kapilena mahātmanā । pitr̥̄ṇāṁ nidhanaṁ ghoram aprāptiṁ tridivasya ca ॥

107.3MBH-3-107-3

स राज्यं सचिवे न्यस्य हृदयेन विदूयता । जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥

sa rājyaṁ sacive nyasya hr̥dayena vidūyatā । jagāma himavatpārśvaṁ tapas taptuṁ nareśvaraḥ ॥

107.4MBH-3-107-4

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः । सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥

ārirādhayiṣur gaṅgāṁ tapasā dagdhakilbiṣaḥ । so ’paśyata naraśreṣṭha himavantaṁ nagottamam ॥

107.5MBH-3-107-5

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् । पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ॥

śr̥ṅgair bahuvidhākārair dhātumadbhir alaṁkr̥tam । pavanālambibhir meghaiḥ pariṣvaktaṁ samantataḥ ॥

107.6MBH-3-107-6

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् । गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ॥

nadīkuñjanitambaiś ca sodakair upaśobhitam । guhākandarasaṁlīnaiḥ siṁhavyāghrair niṣevitam ॥

107.7MBH-3-107-7

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः । भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥

śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ । bhr̥ṅgarājais tathā haṁsair dātyūhair jalakukkuṭaiḥ ॥

107.8MBH-3-107-8

मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः । चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥

mayūraiḥ śatapatraiś ca kokilair jīvajīvakaiḥ । cakorair asitāpāṅgais tathā putrapriyair api ॥

107.9MBH-3-107-9

जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् । सारसानां च मधुरैर्व्याहृतैः समलंकृतम् ॥

jalasthāneṣu ramyeṣu padminībhiś ca saṁkulam । sārasānāṁ ca madhurair vyāhr̥taiḥ samalaṁkr̥tam ॥

107.10MBH-3-107-10

किंनरैरप्सरोभिश्च निषेवितशिलातलम् । दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ॥

kiṁnarair apsarobhiś ca niṣevitaśilātalam । diśāgajaviṣāṇāgraiḥ samantād ghr̥ṣṭapādapam ॥

107.11MBH-3-107-11

विद्याधरानुचरितं नानारत्नसमाकुलम् । विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम् ॥

vidyādharānucaritaṁ nānāratnasamākulam । viṣolbaṇair bhujaṁgaiś ca dīptajihvair niṣevitam ॥

107.12MBH-3-107-12

क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् । क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ॥

kva cit kanakasaṁkāśaṁ kva cid rajatasaṁnibham । kva cid añjanapuñjābhaṁ himavantam upāgamat ॥

107.13MBH-3-107-13

स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः । फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ॥

sa tu tatra naraśreṣṭhas tapo ghoraṁ samāśritaḥ । phalamūlāmbubhakṣo ’bhūt sahasraṁ parivatsarān ॥

107.14MBH-3-107-14

संवत्सरसहस्रे तु गते दिव्ये महानदी । दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥

saṁvatsarasahasre tu gate divye mahānadī । darśayām āsa taṁ gaṅgā tadā mūrtimatī svayam ॥

107.15MBH-3-107-15

गङ्गोवाच । किमिच्छसि महाराज मत्तः किं च ददानि ते । तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥

gaṅgovāca । kim icchasi mahārāja mattaḥ kiṁ ca dadāni te । tad bravīhi naraśreṣṭha kariṣyāmi vacas tava ॥

107.16MBH-3-107-16

लोमश उवाच । एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा । पितामहा मे वरदे कपिलेन महानदि । अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥

lomaśa uvāca । evam uktaḥ pratyuvāca rājā haimavatīṁ tadā । pitāmahā me varade kapilena mahānadi । anveṣamāṇās turagaṁ nītā vaivasvatakṣayam ॥

107.17MBH-3-107-17

षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् । कापिलं तेज आसाद्य क्षणेन निधनं गताः ॥

ṣaṣṭis tāni sahasrāṇi sāgarāṇāṁ mahātmanām । kāpilaṁ teja āsādya kṣaṇena nidhanaṁ gatāḥ ॥

107.18MBH-3-107-18

तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते । यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ॥

teṣām evaṁ vinaṣṭānāṁ svarge vāso na vidyate । yāvat tāni śarīrāṇi tvaṁ jalair nābhiṣiñcasi ॥

107.19MBH-3-107-19

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् । तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥

svargaṁ naya mahābhāge matpitr̥̄n sagarātmajān । teṣām arthe ’bhiyācāmi tvām ahaṁ vai mahānadi ॥

107.20MBH-3-107-20

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता । भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥

etac chrutvā vaco rājño gaṅgā lokanamaskr̥tā । bhagīratham idaṁ vākyaṁ suprītā samabhāṣata ॥

107.21MBH-3-107-21

करिष्यामि महाराज वचस्ते नात्र संशयः । वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥

kariṣyāmi mahārāja vacas te nātra saṁśayaḥ । vegaṁ tu mama durdhāryaṁ patantyā gaganāc cyutam ॥

107.22MBH-3-107-22

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप । अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥

na śaktas triṣu lokeṣu kaś cid dhārayituṁ nr̥pa । anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt ॥

107.23MBH-3-107-23

तं तोषय महाबाहो तपसा वरदं हरम् । स तु मां प्रच्युतां देवः शिरसा धारयिष्यति । करिष्यति च ते कामं पितॄणां हितकाम्यया ॥

taṁ toṣaya mahābāho tapasā varadaṁ haram । sa tu māṁ pracyutāṁ devaḥ śirasā dhārayiṣyati । kariṣyati ca te kāmaṁ pitr̥̄ṇāṁ hitakāmyayā ॥

107.24MBH-3-107-24

एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः । कैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥

etac chrutvā vaco rājan mahārājo bhagīrathaḥ । kailāsaṁ parvataṁ gatvā toṣayām āsa śaṁkaram ॥

107.25MBH-3-107-25

ततस्तेन समागम्य कालयोगेन केनचित् । अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप । स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥

tatas tena samāgamya kālayogena kena cit । agr̥hṇāc ca varaṁ tasmād gaṅgāyā dhāraṇaṁ nr̥pa । svargavāsaṁ samuddiśya pitr̥̄ṇāṁ sa narottamaḥ ॥