संजय उवाच । द्रोणं स जित्वा पुरुषप्रवीर;स्तथैव हार्दिक्यमुखांस्त्वदीयान् । प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य ॥
saṁjaya uvāca । droṇaṁ sa jitvā puruṣapravīras; tathaiva hārdikyamukhāṁs tvadīyān । prahasya sūtaṁ vacanaṁ babhāṣe; śinipravīraḥ kurupuṁgavāgrya ॥