ब्राह्मण्युवाच । नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना । बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम ॥
brāhmaṇy uvāca । nedam alpātmanā śakyaṁ vedituṁ nākr̥tātmanā । bahu cālpaṁ ca saṁkṣiptaṁ viplutaṁ ca mataṁ mama ॥
Who speaks here ब्राह्मण brāhmaṇa · वासुदेव vāsudeva · अर्जुन arjuna
English for this adhyāya (section level, not verse by verse): Ganguli’s translation, approximately §33–35 Ganguli follows a different edition, so the match is approximate.
ब्राह्मण्युवाच । नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना । बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम ॥
brāhmaṇy uvāca । nedam alpātmanā śakyaṁ vedituṁ nākr̥tātmanā । bahu cālpaṁ ca saṁkṣiptaṁ viplutaṁ ca mataṁ mama ॥
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः । तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥
upāyaṁ tu mama brūhi yenaiṣā labhyate matiḥ । tan manye kāraṇatamaṁ yata eṣā pravartate ॥
ब्राह्मण उवाच । अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः । तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥
brāhmaṇa uvāca । araṇīṁ brāhmaṇīṁ viddhi gurur asyottarāraṇiḥ । tapaḥśrute ’bhimathnīto jñānāgnir jāyate tataḥ ॥
ब्राह्मण्युवाच । यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥
brāhmaṇy uvāca । yad idaṁ brahmaṇo liṅgaṁ kṣetrajñam iti saṁjñitam । grahītuṁ yena tac chakyaṁ lakṣaṇaṁ tasya tat kva nu ॥
ब्राह्मण उवाच । अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते । उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥
brāhmaṇa uvāca । aliṅgo nirguṇaś caiva kāraṇaṁ nāsya vidyate । upāyam eva vakṣyāmi yena gr̥hyeta vā na vā ॥
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते । कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥
samyag apy upadiṣṭaś ca bhramarair iva lakṣyate । karmabuddhir abuddhitvāj jñānaliṅgair ivāśritam ॥
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते । पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥
idaṁ kāryam idaṁ neti na mokṣeṣūpadiśyate । paśyataḥ śr̥ṇvato buddhir ātmano yeṣu jāyate ॥
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् । व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥
yāvanta iha śakyeraṁs tāvato ’ṁśān prakalpayet । vyaktān avyaktarūpāṁś ca śataśo ’tha sahasraśaḥ ॥
सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् । यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥
sarvān nānātvayuktāṁś ca sarvān pratyakṣahetukān । yataḥ paraṁ na vidyeta tato ’bhyāse bhaviṣyati ॥
वासुदेव उवाच । ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये । क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥
vāsudeva uvāca । tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṁkṣaye । kṣetrajñād eva parataḥ kṣetrajño ’nyaḥ pravartate ॥
अर्जुन उवाच । क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥
arjuna uvāca । kva nu sā brāhmaṇī kr̥ṣṇa kva cāsau brāhmaṇarṣabhaḥ । yābhyāṁ siddhir iyaṁ prāptā tāv ubhau vada me ’cyuta ॥
वासुदेव उवाच । मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय ॥
vāsudeva uvāca । mano me brāhmaṇaṁ viddhi buddhiṁ me viddhi brāhmaṇīm । kṣetrajña iti yaś coktaḥ so ’ham eva dhanaṁjaya ॥