ब्राह्मण उवाच । एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि । हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ॥
brāhmaṇa uvāca । ekaḥ śāstā na dvitīyo ’sti śāstā; yathā niyukto ’smi tathā carāmi । hr̥dy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam ॥