वैशंपायन उवाच । तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च । यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ॥
vaiśaṁpāyana uvāca । tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca । yamau ca kr̥ṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān ॥