Śānti Parva · Adhyaya 12.111

Adhyāya 111

अध्यायः 111

Who speaks here युधिष्ठिर yudhiṣṭhira · भीष्म bhīṣma

English for this adhyāya (section level, not verse by verse): Ganguli’s translation, approximately §109–111 Ganguli follows a different edition, so the match is approximate.

Text
In this chapterSanskrit allTransliteration allHindi unavailableEnglish unavailableUnavailable translations are marked, never invented.
111.1MBH-12-111-1

युधिष्ठिर उवाच । क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः । दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥

yudhiṣṭhira uvāca । kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ । durgāṇy atitared yena tan me brūhi pitāmaha ॥

111.2MBH-12-111-2

भीष्म उवाच । आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः । वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥

bhīṣma uvāca । āśrameṣu yathokteṣu yathoktaṁ ye dvijātayaḥ । vartante saṁyatātmāno durgāṇy atitaranti te ॥

111.3MBH-12-111-3

ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता । विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥

ye dambhān na japanti sma yeṣāṁ vr̥ttiś ca saṁvr̥tā । viṣayāṁś ca nigr̥hṇanti durgāṇy atitaranti te ॥

111.4MBH-12-111-4

वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः । नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥

vāsayanty atithīn nityaṁ nityaṁ ye cānasūyakāḥ । nityaṁ svādhyāyaśīlāś ca durgāṇy atitaranti te ॥

111.5MBH-12-111-5

मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः । वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥

mātāpitroś ca ye vr̥ttiṁ vartante dharmakovidāḥ । varjayanti divāsvapnaṁ durgāṇy atitaranti te ॥

111.6MBH-12-111-6

स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ । अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥

sveṣu dāreṣu vartante nyāyavr̥tteṣv r̥tāv r̥tau । agnihotraparāḥ santo durgāṇy atitaranti te ॥

111.7MBH-12-111-7

ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः । विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते ॥

ye na lobhān nayanty arthān rājāno rajasāvr̥tāḥ । viṣayān parirakṣanto durgāṇy atitaranti te ॥

111.8MBH-12-111-8

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् । धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते ॥

āhaveṣu ca ye śūrās tyaktvā maraṇajaṁ bhayam । dharmeṇa jayam icchanto durgāṇy atitaranti te ॥

111.9MBH-12-111-9

ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा । निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥

ye pāpāni na kurvanti karmaṇā manasā girā । nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te ॥

111.10MBH-12-111-10

ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते । प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥

ye vadantīha satyāni prāṇatyāge ’py upasthite । pramāṇabhūtā bhūtānāṁ durgāṇy atitaranti te ॥

111.11MBH-12-111-11

अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते । तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते ॥

anadhyāyeṣu ye viprāḥ svādhyāyaṁ naiva kurvate । taponityāḥ sutapaso durgāṇy atitaranti te ॥

111.12MBH-12-111-12

कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः । येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ॥

karmāṇy akuhakārthāni yeṣāṁ vācaś ca sūnr̥tāḥ । yeṣām arthāś ca sādhvarthā durgāṇy atitaranti te ॥

111.13MBH-12-111-13

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः । विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥

ye tapaś ca tapasyanti kaumārabrahmacāriṇaḥ । vidyāvedavratasnātā durgāṇy atitaranti te ॥

111.14MBH-12-111-14

ये च संशान्तरजसः संशान्ततमसश्च ये । सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते ॥

ye ca saṁśāntarajasaḥ saṁśāntatamasaś ca ye । satye sthitā mahātmāno durgāṇy atitaranti te ॥

111.15MBH-12-111-15

येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित् । येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥

yeṣāṁ na kaś cit trasati trasanti na ca kasya cit । yeṣām ātmasamo loko durgāṇy atitaranti te ॥

111.16MBH-12-111-16

परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः । ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥

paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ । grāmyād annān nivr̥ttāś ca durgāṇy atitaranti te ॥

111.17MBH-12-111-17

सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते । ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते ॥

sarvān devān namasyanti sarvān dharmāṁś ca śr̥ṇvate । ye śraddadhānā dāntāś ca durgāṇy atitaranti te ॥

111.18MBH-12-111-18

ये न मानितमिच्छन्ति मानयन्ति च ये परम् । मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते ॥

ye na mānitam icchanti mānayanti ca ye param । mānyamānā na manyante durgāṇy atitaranti te ॥

111.19MBH-12-111-19

ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः । सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥

ye śrāddhāni ca kurvanti tithyāṁ tithyāṁ prajārthinaḥ । suviśuddhena manasā durgāṇy atitaranti te ॥

111.20MBH-12-111-20

ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च । न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते ॥

ye krodhaṁ naiva kurvanti kruddhān saṁśamayanti ca । na ca kupyanti bhr̥tyebhyo durgāṇy atitaranti te ॥

111.21MBH-12-111-21

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः । जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥

madhu māṁsaṁ ca ye nityaṁ varjayantīha mānavāḥ । janmaprabhr̥ti madyaṁ ca durgāṇy atitaranti te ॥

111.22MBH-12-111-22

यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् । वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥

yātrārthaṁ bhojanaṁ yeṣāṁ saṁtānārthaṁ ca maithunam । vāk satyavacanārthāya durgāṇy atitaranti te ॥

111.23MBH-12-111-23

ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् । भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते ॥

īśvaraṁ sarvabhūtānāṁ jagataḥ prabhavāpyayam । bhaktā nārāyaṇaṁ ye ca durgāṇy atitaranti te ॥

111.24MBH-12-111-24

य एष रक्तपद्माक्षः पीतवासा महाभुजः । सुहृद्भ्राता च मित्रं च संबन्धी च तवाच्युतः ॥

ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ । suhr̥d bhrātā ca mitraṁ ca saṁbandhī ca tavācyutaḥ ॥

111.25MBH-12-111-25

य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् । इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥

ya imān sakalām̐l lokāṁś carmavat pariveṣṭayet । icchan prabhur acintyātmā govindaḥ puruṣottamaḥ ॥

111.26MBH-12-111-26

स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ । राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥

sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha । rājaṁs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ ॥

111.27MBH-12-111-27

य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥

ya enaṁ saṁśrayantīha bhaktyā nārāyaṇaṁ harim । te tarantīha durgāṇi na me ’trāsti vicāraṇā ॥

111.28MBH-12-111-28

दुर्गातितरणं ये च पठन्ति श्रावयन्ति च । पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥

durgātitaraṇaṁ ye ca paṭhanti śrāvayanti ca । pāṭhayanti ca viprebhyo durgāṇy atitaranti te ॥

111.29MBH-12-111-29

इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ । संतरेद्येन दुर्गाणि परत्रेह च मानवः ॥

iti kr̥tyasamuddeśaḥ kīrtitas te mayānagha । saṁtared yena durgāṇi paratreha ca mānavaḥ ॥