दूत उवाच । जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च । तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ॥
dūta uvāca । janyārtham annaṁ drupadena rājñā; vivāhahetor upasaṁskr̥taṁ ca । tad āpnuvadhvaṁ kr̥tasarvakāryāḥ; kr̥ṣṇā ca tatraiva ciraṁ na kāryam ॥