वैशंपायन उवाच । गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ । तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ॥
vaiśaṁpāyana uvāca । gatvā tu tāṁ bhārgavakarmaśālāṁ; pārthau pr̥thāṁ prāpya mahānubhāvau । tāṁ yājñasenīṁ paramapratītau; bhikṣety athāvedayatāṁ narāgryau ॥